Go To Mantra

हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः । अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ॥

English Transliteration

hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṁyajante sakhāyaḥ | atrāha tvaṁ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve ||

Pad Path

हृ॒दा । त॒ष्टेषु॑ । मन॑सः । ज॒वेषु॑ । यत् । ब्रा॒ह्म॒णाः । स॒म्ऽयज॑न्ते । सखा॑यः । अत्र॑ । अह॑ । त्व॒म् । वि । ज॒हुः॒ । वे॒द्याभिः॑ । ओह॑ऽब्रह्माणः । वि । च॒र॒न्ति॒ । ऊँ॒ इति॑ । त्वे॒ ॥ १०.७१.८

Rigveda » Mandal:10» Sukta:71» Mantra:8 | Ashtak:8» Adhyay:2» Varga:24» Mantra:3 | Mandal:10» Anuvak:6» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (मनसः-जवेषु) मन के वेगों में (हृदा तष्टेषु) हृदयस्थ बुद्धि से निष्पादित निश्चित किये हुए वेदार्थों में (सखायः-ब्राह्मणाः) समान ज्ञानवाले विद्वान् (संयजन्ते) सङ्गति को प्राप्त होते हैं (अत्र-अह-त्वं विजहुः) इस ज्ञानप्रसङ्ग में उस असखा-अब्राह्मण-अज्ञानी को विद्वान् लोग सर्वथा त्याग देते हैं, उसे आदर नहीं देते हैं, क्योंकि (वेद्याभिः) वेदितव्य-प्रवृत्तियों द्वारा (त्वे-ओहब्रह्माणः) कुछ एक ऊहनीय तर्कणीय वेदज्ञान जिनका है, वे ऐसे (विचरन्ति-उ) वेदार्थज्ञान में विचरते हैं-प्रवेश करते हैं ॥८॥
Connotation: - वेद का ज्ञान पवित्र मन और तीक्ष्ण बुद्धि द्वारा साक्षात् होता है। जो ऊहा करनेवाले विद्वान् हैं, वे उसमें प्रवेश करते हैं, अन्य अज्ञानी नहीं ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (मनसः-जवेषु) मनसां प्रजवेषु मनांसि प्रजवन्ति मननं कुर्वन्ति येषां तेषु वेदार्थेषु, तदा (हृदा तष्टेषु) हृदयस्थबुद्ध्या निष्पादितेषु निदिध्यासितेषु वेदार्थेषु (सखायः-ब्राह्मणाः) समानख्यानाः समानज्ञानवन्तो ब्राह्मणाः (संयजन्ते) वेदार्थेषु सङ्गच्छन्ते वेदार्थेषु साङ्गत्यं भजन्ते (अत्र-अह-त्वं विजहुः) अत्र वेदार्थज्ञानप्रसङ्गेऽसखायमब्राह्मणमज्ञातारं खलु ते विद्वांसः सङ्गताः सर्वथा त्यजन्ति तं नाद्रियन्ते, यतः (वेद्याभिः-त्वे-ओहब्रह्माणः-विचरन्ति-उ) वेदितव्याभिः प्रवृत्तिभिरेके येषामूहमूहनीयं ब्रह्म वेदज्ञानं ते वेदार्थज्ञानेषु नितान्तं विचरन्ति-प्रविशन्ति। अर्थोऽयं निरुक्तानुसारी [निरु० १३।१३] ॥८॥